तीर्थयात्रावर्णनम्
जीवन्मुक्तस्थितिं ब्रह्मन्कृत्वा राघवमादितः ।
क्रमात्कथय मे नित्यं भविष्यामि सुखी यथा ॥ १ ॥
श्रीवाल्मीकिरुवाच -
भ्रमस्य जागतस्यास्य जातस्याकाशवर्णवत् ।
अपुनःस्मरणं मन्य साधो विस्मरणं वरम् ॥ २ ॥
दृश्यात्यन्ताभावबोधं विना तन्नानुभूयते ।
कदाचित्केनचिन्नाम स्वबोधोऽन्विष्यतामतः ॥ ३ ॥
स चेह संभवत्येव तदर्थमिदमाततम् ।
शास्त्रमाकर्णयसि चेत्तत्त्वमाप्स्यसि नान्यथा ॥
४ ॥
जगद्भ्रमोयं दृश्योऽपि नास्त्येवेत्यनुभूयते ।
वर्णो व्योम्न इवाखेदाद्विचारेणामुनाऽनघ ॥ ५ ॥
दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् ।
संपन्नं चेत्तदुत्पन्ना परा निर्वाणनिर्वृत्तिः
॥ ६ ॥
अन्यथा शास्त्रगर्तेषु लुठतां भवतामिह ।
भवत्यकृत्रिमाज्ञानां कल्पैरपि न निर्वृत्तिः ॥
७ ॥
अशेषेण परित्यागो वासनानां य उत्तमः ।
मोक्ष इत्युच्यते ब्रह्मन्स एव विमलक्रमः ॥ ८ ॥
क्षीणायां वासनायां तु चेतो गलति सत्वरम् ।
क्षीणायां शीतसंतत्यां ब्रह्मन्हिमकणो यथा ॥ ९ ॥
अयं वासनया देहो ध्रियते भूतपञरः ।
तनुनान्तर्निविष्टेन मुक्तौघस्तन्तुना यथा ॥ १०
॥
वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा ।
मलिना जन्मनो हेतुः शुद्धा जन्मविनाशिनी ॥ ११ ॥
अज्ञानसुघनाकारा घनाहंकारशालिनी ।
पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः ॥ १२ ॥
पुनर्जन्माङ्कुरं त्यक्त्वास्थिता संभृष्टबीजवत्
।
देहार्थं ध्रियते ज्ञातज्ञेया शुद्धेति चोच्यते
॥ १३ ॥
अपुनर्जन्मकरणी जीवन्मुक्तेषु देहिषु ।
वासना विद्यते शुद्धा देहे चक्र इव भ्रमः ॥ १४ ॥
ये शुद्धवासना भूयो न जन्मानर्थभाजनम् ।
ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ॥
१५ ॥
जीवन्मुक्तिपदं प्राप्तो यथा रामो महामतिः ।
तत्तेऽहं शृणु वक्ष्यामि जरामरणशान्तये ॥ १६ ॥
भरद्वाज महाबुद्धे रामक्रममिमं शुभम् ।
शृणु वक्ष्यामि तेनैव सर्वं ज्ञास्यसि सर्वदा ॥
१७ ॥
विद्यागृहाद्विनिष्क्रम्य रामो राजीवलोचनः ।
दिवसान्यनयद्गेहे लीलाभिरकुतोभयः ॥ १८ ॥
अथ गच्छति काले तु पालयत्यवनिं नृपे ।
प्रजासु वीतशोकासु स्थितासु विगतज्वरम् ॥ १९ ॥
तीर्थपुण्याश्रमश्रेणीर्द्रष्टुमुत्कण्ठितं मनः
।
रामस्याभूद्भृशं तत्र कदाचिद्गुणशालिनः ॥ २० ॥
राघवश्चिन्तयित्वैवमुपेत्य चरणौ पितुः ।
हंसः पद्मामिव नवौ जग्राह नखकेसरौ ॥ २१ ॥
श्रीराम उवाच -
तीर्थानि देवसद्मनि वनान्यायतनानि च ।
द्रष्टुमुत्कण्ठितं तात ममेदं नाथ मानसम् ॥ २२ ॥
तदेतामर्थितां पूर्वां सफलां कर्तुमर्हसि ।
न सोऽस्ति भुवने नाथ त्वयायोऽर्थीनमानितः ॥ २३ ॥
इति संप्रार्थितो राजा वसिष्ठेन समं तदा ।
विचार्यामुञ्चदेवैनं रामं प्रथममर्थिनम् ॥ २४ ॥
शुभे नक्षत्रदिवसे भ्रातृभ्यां सह राघवः ।
मङ्गलालंकृतवपुः कृतस्वस्त्ययनो द्विजैः ॥ २५ ॥
वसिष्ठप्रहितैर्विप्रैः शास्त्रज्ञैश्च समन्वितः
।
स्निग्धैः कतिपयैरेव राजपुत्रवरैः सह ॥ २६ ॥
अम्बाभिर्विहिताशीर्भिलिङ्ग्यालिङ्ग्य भूषितः ।
निरगात्स्वगृहात्तस्मात्तीर्थयात्रार्थमुद्यतः ॥
२७ ॥
निर्गतः स्वपुरात्पौरैस्तूर्यघोषेण वादितः ।
पीयमानः पुरस्त्रीणां नेत्रैर्भृङ्गौघभङ्गुरैः ॥
२८ ॥
ग्रामीणललनालोलहस्तपद्मापनोदितैः ।
लाजवर्षैर्विकीर्णात्मा हिमैरिव हिमाचलः ॥ २९ ॥
आवर्जयन्विप्रगणान्परिश्रृण्वन्प्रजाशिषः ।
आलोकयन्दिगन्तांश्च परिचक्राम जाङ्गलान् ॥ ३० ॥
अथारभ्य स्वकात्तस्मात्क्रमात्कोशलमण्डलात् ।
स्नानदानतपोध्यानपूर्वकं स ददर्श ह ॥ ३१ ॥
नदीतीराणि पुण्यानि वनान्यायतनानि च ।
जङ्गलानि जनान्तेषु तटान्यब्धिमहीभृताम् ॥ ३२ ॥
मन्दाकिनीमिन्दुनिभां कालिन्दीं चोत्पलामलाम् ।
सरस्वतीं शतद्रूं च चन्द्रभागामिरावतीम् ॥ ३३ ॥
वेणीं च कृष्णवेणीं च निर्विन्ध्यां सरयूं तथा ।
चर्मण्वतीं वितस्तां च विपाशां बाहुदामपि ॥ ३४ ॥
प्रयागं नैमिषं चैव धर्मारण्यं गयां तथा ।
वाराणसीं श्रीगिरिं च केदारं पुष्करं तथा ॥ ३५ ॥
मानसं च क्रमसरस्तथैवोत्तरमानसम् ।
वडवावदनं चैव तीर्थवृन्दं स सादरम् ॥ ३६ ॥
अग्नितीर्थं महातीर्थमिन्द्रद्युम्नसरस्तथा ।
सरांसि सरितश्चैव तथा नदह्रदावलीम् ॥ ३७ ॥
स्वामिनं कार्तिकेयं च शालग्रामं हरिं तथा ।
स्थानानि च चतुःषष्टिं हरेरथ हरस्य च ॥ ३८ ॥
नानाश्चर्यविचित्राणि चतुरब्धितटानि च ।
विन्ध्यमन्दरजुञ्जांश्च कुलशैलस्थलानि च ॥ ३९ ॥
रार्षीणां च महतां ब्रह्मर्षीणां तथैव च ।
देवानां ब्राह्मणानां च पावनानाश्रमाञ्छुभान् ॥
४० ॥
भूयोभूयः स बभ्राम भ्रातृभ्यां सह मानदः ।
चतुर्ष्वपि दिगन्तेषु सर्वानेव महीतटान् ॥ ४१ ॥
अमरकिन्नरमानवमानितः
समवलिक्य
महीमखिलामिमाम् ।
उपययौ स्वगृहं रघुनन्दनो
विहृतदिक्
शिवलोकमिवेश्वरः
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे
तीर्थयात्राकरणं तृतीयः सर्गः ॥ ३ ॥
No comments:
Post a Comment