Wednesday, February 25, 2015

योगवासिष्ठ - वैराग्य प्रकरणम् - सप्तमः सर्गः





विश्वामित्रवाक्यवर्णनम् 





श्रीवाल्मीकिरुवाच -

तच्छ्रुत्वा राजसिंहस्य वाक्यमद्‌भुतविस्तरम् ।

हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ १ ॥

सदृशं राजशार्दूल तवैवैतन्महीतले ।

महावंशप्रसूतस्य वसिष्ठवशवर्तिनः ॥ २ ॥

यत्तु मे हृद्‌गतं वाक्यं तस्य कार्यविनिर्णयम् ।

कुरु त्वं राजशार्दूल धर्मं समनुपालय ॥ ३ ॥

अहं धर्मं समातिष्ठे सिद्ध्यर्थं पुरुषर्षभ ।

तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः ॥ ४ ॥

यदा यदा नु यज्ञेन यजेऽहं विबुधव्रजान् ।

तदा तदा तु मे यज्ञं विनिघ्नन्ति निशाचराः ॥ ५ ॥

बहुशो विहिते तस्मिन्मया राक्षसनायकाः ।

अकिरंस्ते महीं यागे मांसेन रुधिरेण च ॥ ६ ॥

अवधूते तथाभूते तस्मिन्यागकदम्बके ।

कृतश्रमो निरुत्साहस्तस्मादेशादुपागतः ॥ ७ ॥

न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ।

तथाभूतं हि तत्कर्म न शापस्तस्य विद्यते ॥ ८ ॥

ईदृशी यज्ञदीक्षा सा मम तस्मिन्महाक्रतौ ।

त्वत्प्रसादादविघ्नेन प्रापयेयं महाफलम् ॥ ९ ॥

त्रातुमर्हसि मामार्तं शरणार्थिनमागतम् ।

अर्थिनां यन्निराशत्वं सत्तमेऽभिभवो हि सः ॥ १० ॥

तवास्ति तनयः श्रीमान्दृप्तशार्दूलविक्रमः ।

महेन्द्रसदृशो वीर्ये रामो रक्षोविदारणः ॥ ११ ॥

तं पुत्रं राजशार्दूल रामं सत्यप्रराक्रमम् ।

काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥ १२ ॥

शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ।

राक्षसा येऽपकर्तारस्तेषां मूर्धविनिग्रहे ॥ १३ ॥

श्रेयश्चास्य करिष्यामि बहुरूपमनन्तकम् ।

त्रयाणामपि लोकानां येन पूज्यो भविष्यति ॥ १४ ॥

न चे राममासाद्य स्थातुं शक्ता निशाचराः ।

क्रुद्धं केसरिणं दृष्ट्वा वनेरण इवैणकाः ॥ १५ ॥

तेषां न चान्यः काकुत्स्थाद्योद्धुमुत्सहते पुमान् ।

ऋते केसरिणः क्रुद्धान्मत्तानां करिणामिव ॥ १६ ॥

वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे ।

खरदूषणयोर्भृत्याः कृतान्ताः कुपिता इव ॥ १७ ॥

रामस्य राजशार्दूल सहिष्यन्ते न सायकान् ।

अनारतगता धारा जलदस्येव पांसवः ॥ १८ ॥

न च पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिव ।

न तदस्ति जगत्यस्मिन्यन्न देयं महात्मनाम् ॥ १९ ॥

हन्त नूनम् विजानामि हतांस्तान्विद्धि राक्षसान् ।

नह्यस्मदादयः प्राज्ञाः संदिग्धे संप्रवृत्तयः ॥ २० ॥

अहं वेद्मि महात्मानं रामं राजीवलोचनम् ।

वसिष्ठश्च महातेजा ये चान्ये दीर्घदर्शिनः ॥ २१ ॥

यदि धर्मो महत्त्वं च यशस्ते मनसि स्थितम् ।

तन्मह्यं समभिप्रेतमात्मजं दातुमर्हसि ॥ २२ ॥

दशरात्रश्च मे यज्ञो यस्मिन्‌रामेण राक्षसाः ।

हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः ॥ २३ ॥ 

अत्राप्यनुज्ञां काकुत्स्थ ददतां तव मन्त्रिणः ।

वसिष्ठप्रमुखाः सर्वे तेन रामं विसर्जय ॥ २४ ॥

नात्येति कालः कालज्ञ यथायं मम राघव ।

तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥ २५ ॥

कार्यमण्वपि काले तु कृतमेत्युपकारताम् ।

महदप्युपकारोऽपि रिक्ततामेत्यकालतः ॥ २६ ॥

इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।

विरराम महातेजा विश्वामित्रो मुनीश्वरः ॥ २७ ॥

श्रुत्वा वचो मुनिवरस्य महानुभाव-

  स्तूष्णीमतिष्ठदुपपन्नपदं स वक्तुम् ।

नो युक्तियुक्तकथनेन विनैति तोषं

  धीमानपूरितमनोऽभिमतश्च लोकं ॥ २८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये

वैराग्यप्रकरणे विश्वामित्रवाक्यं नाम सप्तमः सर्गः ॥ ७ ॥
 

Tuesday, February 24, 2015

योगवासिष्ठ - वैराग्य प्रकरणम् - षष्ठः सर्गः

विश्वामित्राभ्यागमनम् 


श्रीवाल्मीकिरुवाच -

इत्युक्ते मुनिनाथेन संदेहवति पार्थिवे ।

खेदवत्यास्थिते मौनं किंचित्कालप्रतीक्षणे ॥ १ ॥

परिखिन्नासु सर्वांसु राज्ञीषु नृपसद्मसु ।

स्थितासु सावधानासु रामचेष्टासु सर्वतः ॥ २ ॥

एतस्मिन्नेव काले तु विश्वामित्र इति श्रुतः ।

महर्षिरभ्यगाद्‌द्रष्टुं तमयोध्यानराधिपम् ॥ ३ ॥

तस्य यज्ञोऽथ रक्षोभिस्तथा विलुलुपे किल ।

मायावीर्यबलोन्मत्तैर्धर्मकार्यस्य धीमतः ॥ ४ ॥

रक्षार्थं तस्य यज्ञस्य द्रष्टुमैच्छत्स पार्थिवम् ।

नहि शक्नोत्यविघ्नेन समाप्तुं स मुनिः क्रतुम् ॥ ५ ॥

ततस्तेषां विनाशार्थमुद्यतस्तपसां निधिः ।

विश्वामित्रो महातेजा अयोध्यामभ्यगात्पुरीम् ॥ ६ ॥

स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ।

शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम् ॥ ७ ॥

तस्य तद्वचनं श्रुत्वा द्वास्था राजगृहं ययुः । 

संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥ ८ ॥

ते गत्वा राजसदनं विश्वामित्रमृषिं ततः ।

प्राप्तमावेदयामासुः प्रतीहाराः पतेस्तदा ॥ ९ ॥

अथास्थानगतं भूपं राजमण्डलमालिनम् ।

समुपेत्य त्वरायुक्तो याष्टीकोऽसौ व्यजिज्ञपत् ॥ १० ॥

देव द्वारि महातेजा बालभास्करभासुरः ।

ज्वालारुणजटाजूटः पुमाञ्छ्रीमानवस्थितः ॥ ११ ॥

सभासुरपताकान्तं साश्वेभपुरुषायुधम् ।

कृतवांस्तं प्रदेशं यस्तेजोभिः कीर्णकाञ्चनम् ॥ १२ ॥

वीक्ष्यमाणे तु याष्टीके निवेदयति राजनि ।

विश्वामित्रो मुनिः प्राप्त इत्यनुद्धतया गिरा ॥ १३ ॥

इति याष्टीकवचनमाकर्ण्य नृपसत्तमः ।

स समन्त्री ससामन्तः प्रोत्तस्थौ हेमविष्टरात् ॥ १४ ॥

पदातिरेव सहसा राज्ञां वृन्देन मालितः ।

वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः ॥ १५ ॥

जगाम तत्र यत्रासौ विश्वामित्रो महामुनिः ।

ददर्श मुनिशार्दूलं द्वारभूमाववस्थितम् ॥ १६ ॥

केनापि कारणेनोर्वीतलमर्कमुपागतम् ।

ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा ॥ १७ ॥

जराजरठया नित्यं तपःप्रसररूक्षया ।

जटावल्या वृतस्कन्धं ससंध्याभ्रमिवाचलम् ॥ १८ ॥

उपशान्तं च कान्तं च दीप्तमप्रतिघाति च ।

निभृतं चोर्जिताकारं दधानं भास्वरं वपुः ॥ १९ ॥

पेशलेनातिभीमेन प्रसन्नेनाकुलेन च ।

गम्भीरेणातिपूर्णेन तेजसा रञ्जितप्रभम् ॥ २० ॥

अनन्तजीवितदशासखीमेकामनिन्दिताम् ।

धारयन्तं करे श्लक्ष्णां कुण्डीमम्लानमानसम् ॥ २१ ॥

करुणाक्रान्तचेतस्त्वात्प्रसन्नैर्मधुराक्षरैः ।

वीक्षणैरमृतेनेव संसिञ्चन्तमिमाः प्रजाः ॥ २२ ॥

युक्तयज्ञोपवीताङ्गं धवलप्रोन्नतद्‌भ्रुवम् ।

अनन्तं विस्मयं चान्तः प्रयच्छन्तमिवेक्षितुः ॥ २३ ॥

मुनिमालोक्य भूपालो दूरादेवानताकृतिः ।

प्रणनाम गलन्मौलिमणिमानितभूतलम् ॥ २४ ॥

मुनिरप्यवनीनाथं भास्वानिव शतक्रतुम् ।

तत्राभिवादयांचक्रे मधुरोदारया गिरा ॥ २५ ॥

ततो वसिष्ठप्रमुखाः सर्व एव द्विजातयः ।

स्वागतादिक्रमेणैनं पूजयामासुरादृताः ॥ २६ ॥

दशरथ उवाच -

अशङ्‌कितोपनीतेन भास्वता दर्शनेन ते ।

साधो स्वनुगृहीताः स्मो रविणेवाम्बुजाकराः ॥ २७ ॥

यदनादि यदक्षुण्णं यदपायविवर्जितम् ।

तदानन्दसुखं प्राप्तं मया त्वद्दर्शनान्मुने ॥ २८ ॥

अद्य वर्तामहे नूनं धन्यानां धुरि धर्मतः ।

भवदागमनस्येमे यद्वयं लक्ष्यमागताः ॥ २९ ॥

एवं प्रकथयन्तोऽत्र राजानोऽथ महर्षयः ।

आसनेषु सभास्थानमासाद्य समुपाविशन् ॥ ३० ॥

स दृष्ट्वा मालितं लक्ष्म्या भीतस्तमृषिसत्तमम् ।

प्रहृष्टवदनो राजा स्वयमर्घ्यं न्यवेदयत् ॥ ३१ ॥

स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा ।

प्रदक्षिणं प्रकुर्वन्तं राजानं पर्यपूजयत् ॥ ३२ ॥

स राज्ञा पूजितस्तेन प्रहृष्टवदनस्तदा ।

कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥ ३३ ॥

वसिष्ठेन समागम्य प्रहस्य मुनिपुंगवः ।

यथार्हं चार्चयित्वैनं पप्रच्छानामयं ततः ॥ ३४ ॥

क्षणं यथार्हमन्योन्यं पूजयित्व समेत्य च ।

ते सर्वे हृष्टमनसो महाराजनिवेशने ॥ ३५ ॥

यथोचितासनगता मिथः संवृद्धतेजसः ।

परस्परेण पप्रच्छुः सर्वऽनामयमादरात् ॥ ३६ ॥

उपविष्टाय तस्मै स विश्वामित्राय धीमते ।

पाद्यमर्घ्यं च गां चैव भूयोभूयो न्यवेदयत् ॥ ३७ ॥

अर्चयित्वा तु विधिवद्‌विश्वामित्रमभाषत ।

प्राञलिः प्रयतो वाक्यमिदं प्रीतमना नृपः ॥ ३८ ॥

यथाऽमृतस्य संप्राप्तिर्यथा वर्षमवर्षके ।

यथान्धस्येक्षणप्राप्तिर्भवदागमनं तथा ॥ ३९ ॥

यथेष्टदारसंपर्कात्पुत्रजन्माऽप्रजावतः ।

स्वप्नदृष्टार्थलाभश्च भवदागमनं तथा ॥ ४० ॥

यथेप्सितेन संयोग इष्टस्यागमनं यथा ।

प्रणष्टस्य यथा लाभो भवदागमनं तथा ॥ ४१ ॥

यथा हर्षो नभोगत्या मृतस्य पुनरागमात् ।

तथा त्वदागमाद्‌ब्रह्मन्स्वागतं ते महामुने ॥ ४२ ॥

ब्रह्मलोकनिवासो हि कस्य न प्रीतिमावहेत् ।

मुने तवागमस्तद्वत्सत्यमेव ब्रवीमि ते ॥ ४३ ॥

कश्च ते परमं कामः किं च ते करवाण्यहम् ।

पात्रभूतोऽसि मे विप्र प्राप्तः परमधार्मिकः ॥ ४४ ॥

पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ।

ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि भगवन्मया ॥ ४५ ॥

गङ्गाजलाभिषेकेण यथा प्रीतिर्भवेन्मम ।

तथा त्वद्दर्शनात्प्रीतिरन्तः शीतयतीव माम् ॥ ४६ ॥

विगतेच्छाभयक्रोधो वीतरागो निरामयः ।

इदमत्यद्‌भुतं ब्रह्मन्यद्‌भगवान्मामुपागतः ॥ ४७ ॥

शुभक्षेत्रगतं चाहमात्मानमपकल्मषम् ।

चन्द्रबिम्ब इवोन्मग्नं वेदवेद्य विदांवर ॥ ४८ ॥

साक्षादिव ब्रह्मणो मे तवाभ्यागमनं मतम् ।

पूतोऽस्म्यनुगृहीतश्च तवाभ्यागमनान्मुने ॥ ४९ ॥

त्वदागमनपुण्येन साधो यदनुरञ्जितम् ।

अद्य मे सफलं जन्म जीवितं तत्सुजीवितम् ॥ ५० ॥

त्वामिहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च ।

आत्मन्येव नमाम्यन्तदृष्ट्वेन्दुं जलधिर्यथा ॥ ५१ ॥

यत्कार्यं येन वार्थेन प्राप्तोऽसि मुनिपुङ्गव ।

कृतमित्येव तद्विद्धि मान्योऽसीति सदा मम ॥ ५२ ॥

स्वकार्ये न विमर्शं त्व कर्तुमर्हसि कौशिक ।

भगवन्नास्त्यदेयं मे त्वयि यत्प्रतिपद्यते ॥ ५३ ॥

कार्यस्य न विचारं त्वं कर्तुमर्हसि धर्मतः ।

कर्ता चाहमशेषं ते दैवतं परमं भवान् ॥ ५४ ॥

इदमतिमधुरं निशम्य वाक्यं

  श्रुतिसुखमात्मविदा विनीतमुक्तम् ।

प्रथितगुणयशा गुणैर्विशिष्टं

  मुनिवृषभः परमं जगाम हर्षम् ॥ ५५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये

वैराग्यप्रकरणे विश्वामित्राभ्यागमनं नाम षष्टः सर्गः ॥ ६ ॥