विश्वामित्रवाक्यवर्णनम्
श्रीवाल्मीकिरुवाच -
तच्छ्रुत्वा राजसिंहस्य वाक्यमद्भुतविस्तरम् ।
हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ १ ॥
सदृशं राजशार्दूल तवैवैतन्महीतले ।
महावंशप्रसूतस्य वसिष्ठवशवर्तिनः ॥ २ ॥
यत्तु मे हृद्गतं वाक्यं तस्य कार्यविनिर्णयम्
।
कुरु त्वं राजशार्दूल धर्मं समनुपालय ॥ ३ ॥
अहं धर्मं समातिष्ठे सिद्ध्यर्थं पुरुषर्षभ ।
तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः ॥ ४ ॥
यदा यदा नु यज्ञेन यजेऽहं विबुधव्रजान् ।
तदा तदा तु मे यज्ञं विनिघ्नन्ति निशाचराः ॥ ५ ॥
बहुशो विहिते तस्मिन्मया राक्षसनायकाः ।
अकिरंस्ते महीं यागे मांसेन रुधिरेण च ॥ ६ ॥
अवधूते तथाभूते तस्मिन्यागकदम्बके ।
कृतश्रमो निरुत्साहस्तस्मादेशादुपागतः ॥ ७ ॥
न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव
।
तथाभूतं हि तत्कर्म न शापस्तस्य विद्यते ॥ ८ ॥
ईदृशी यज्ञदीक्षा सा मम तस्मिन्महाक्रतौ ।
त्वत्प्रसादादविघ्नेन प्रापयेयं महाफलम् ॥ ९ ॥
त्रातुमर्हसि मामार्तं शरणार्थिनमागतम् ।
अर्थिनां यन्निराशत्वं सत्तमेऽभिभवो हि सः ॥ १०
॥
तवास्ति तनयः श्रीमान्दृप्तशार्दूलविक्रमः ।
महेन्द्रसदृशो वीर्ये रामो रक्षोविदारणः ॥ ११ ॥
तं पुत्रं राजशार्दूल रामं सत्यप्रराक्रमम् ।
काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥ १२ ॥
शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ।
राक्षसा येऽपकर्तारस्तेषां मूर्धविनिग्रहे ॥ १३
॥
श्रेयश्चास्य करिष्यामि बहुरूपमनन्तकम् ।
त्रयाणामपि लोकानां येन पूज्यो भविष्यति ॥ १४ ॥
न चे राममासाद्य स्थातुं शक्ता निशाचराः ।
क्रुद्धं केसरिणं दृष्ट्वा वनेरण इवैणकाः ॥ १५ ॥
तेषां न चान्यः काकुत्स्थाद्योद्धुमुत्सहते पुमान्
।
ऋते केसरिणः क्रुद्धान्मत्तानां करिणामिव ॥ १६ ॥
वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे ।
खरदूषणयोर्भृत्याः कृतान्ताः कुपिता इव ॥ १७ ॥
रामस्य राजशार्दूल सहिष्यन्ते न सायकान् ।
अनारतगता धारा जलदस्येव पांसवः ॥ १८ ॥
न च पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिव ।
न तदस्ति जगत्यस्मिन्यन्न देयं महात्मनाम् ॥ १९
॥
हन्त नूनम् विजानामि हतांस्तान्विद्धि राक्षसान्
।
नह्यस्मदादयः प्राज्ञाः संदिग्धे संप्रवृत्तयः ॥
२० ॥
अहं वेद्मि महात्मानं रामं राजीवलोचनम् ।
वसिष्ठश्च महातेजा ये चान्ये दीर्घदर्शिनः ॥ २१
॥
यदि धर्मो महत्त्वं च यशस्ते मनसि स्थितम् ।
तन्मह्यं समभिप्रेतमात्मजं दातुमर्हसि ॥ २२ ॥
दशरात्रश्च मे यज्ञो यस्मिन्रामेण राक्षसाः ।
हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः ॥ २३ ॥
अत्राप्यनुज्ञां काकुत्स्थ ददतां तव मन्त्रिणः ।
वसिष्ठप्रमुखाः सर्वे तेन रामं विसर्जय ॥ २४ ॥
नात्येति कालः कालज्ञ यथायं मम राघव ।
तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥ २५
॥
कार्यमण्वपि काले तु कृतमेत्युपकारताम् ।
महदप्युपकारोऽपि रिक्ततामेत्यकालतः ॥ २६ ॥
इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।
विरराम महातेजा विश्वामित्रो मुनीश्वरः ॥ २७ ॥
श्रुत्वा वचो मुनिवरस्य महानुभाव-
स्तूष्णीमतिष्ठदुपपन्नपदं
स वक्तुम् ।
नो युक्तियुक्तकथनेन विनैति तोषं
धीमानपूरितमनोऽभिमतश्च
लोकं ॥ २८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे विश्वामित्रवाक्यं नाम सप्तमः सर्गः
॥ ७ ॥