दिवसव्यवहारनिरूपणम्
रामःपुष्पाञ्जलिव्रातैर्विकीर्णः पुरवासिभिः ।
प्रविवेश गृहं श्रीमाञ्जयन्तो विष्टपं यथा ॥ १ ॥
प्रणनामाथ पितरं वसिष्ठं भ्रातृबान्धवान् ।
ब्राह्मणान्कुलवृद्धांश्च राघवः प्रथमागतः ॥ २ ॥
सुहृद्भिर्भ्रातृभिश्चैव पित्रा द्विजगणेन च ।
मुहुरालिङ्गिताचारो राघवो न ममौ मुदा ॥ ३ ॥
तस्मिन्गृहे दाशरथेः प्रियप्रकथनैर्मिथः ।
जुघूर्णुर्मधुरैराशा मृदुवंशस्वनैरिव ॥ ४ ॥
बभूवाथ दिनान्यष्टौ रामागमन उत्सवः ।
सुखं मत्तजनोन्मुक्तकलकोलाहलाकुलः ॥ ५ ॥
उवास स सुखं गेहे ततः प्रभृति राघवः ।
वर्णयन्विविधाकारान्देशाचारानितस्ततः ॥ ६ ॥
प्रातरुत्थाय रामोऽसौ कृत्वा संध्यां यथाविधि ।
सभासंस्थं ददर्शेन्द्रसमं स्वपितरं तथा ॥ ७ ॥
कथाभिः सुविचित्राभिः स वसिष्ठादिभिः सह ।
स्थित्वा दिनचतुर्भागं ज्ञानगर्भाभिरादृतः ॥ ८ ॥
जगाम पित्रानुज्ञातो महत्या सेनया वृतः ।
वराहमहिषाकीर्णं वनमाखेटकेच्छया ॥ ९ ॥
तत आगत्य सदने कृत्वा स्नानादिकं क्रमम् ।
समित्रबान्धवो भुक्त्वा निनाय ससुहृन्निशाम् ॥ १०
॥
एवंप्रायदिनाचारो भ्रातृभ्यां सह राघवः ।
आगत्य तीर्थयात्रायाः समुवास पितुर्गृहे ॥ ११ ॥
नृपतिसंव्यवहारमनोज्ञया
सुजनचेतसि
चन्द्रिकयानया ।
परिनिनाय दिनानि स चेष्टया
स्तुतसुधारसपेशलयाऽनघ
॥ १२ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे दिवसव्यवहारनिरूपणं नाम चतुर्थः
सर्गः ॥ ४ ॥
Namaste
ReplyDeleteIs there any resource of the Yoga Vaishtha that allows a word search either in Devanagari or English? You seem to have keyed in the entire Yoga Vasishtha. If this is correct, could you please allow me to access the complete YV file where I can search for particular words? Thanks.