Friday, February 20, 2015

योगवासिष्ठ - वैराग्य प्रकरणम् - द्वितीयः सर्गः


सूत्रपातनिकावर्णनम् 




दिवि भूमौ तथाकाशे बहिरन्तश्च मे विभुः ।
यो विभात्यवभासात्मा तस्मै सर्वात्मने नमः ॥ १ ॥
अहं बद्धो विमुक्तः स्यामिति यस्यास्ति निश्चयः ।
नात्यन्तमज्ञो नोत ज्ञः सोऽस्मिञ्छास्त्रेऽधिकारवान् ॥ २ ॥
कथोपायान्विचार्यादौ मोक्षोपायानिमानथ ।
यो विचारयति प्राज्ञो न स भूयोऽभिजायते ॥ ३ ॥
अस्मिन्‌रामायणे रामकथोपायान्महाबलान् ।
एतांस्तु प्रथमं कृत्वा पुराहमरिमर्दन ॥ ४ ॥
शिष्यायास्मि विनीताय भरद्वाजाय धीमते ।
एकाग्रो दत्तवांस्तस्मै मणिमब्धिरिवार्थिने ॥ ५ ॥
तत एते कथोपाया भरद्वाजेन धीमता ।
कस्मिंश्चिन्मेरुगहने ब्रह्मणोऽग्र उदाहृताः ॥ ६ ॥
अथास्य तुष्टो भगवान्ब्रह्मा लोकपितामहः ।
वरं पुत्र गृहाणेति तमुवाच महाशयः ॥ ७ ॥
भरद्वाज उवाच -
भगवन्भूतभव्येश वरोऽयं मेऽद्य रोचते ।
येनेयं जनता दुःखान्मुच्यते तदुदाहर ॥ ८ ॥
श्रीब्रह्मोवाच -
गुरुं वाल्मीकिमत्राशु प्रार्थयस्व प्रयत्‍नतः ।
तेनेदं यत्समारब्धं रामायणमनिन्दितम् ॥ ९ ॥
तस्मिञ्छ्रुते नरो मोहात्समग्रात्संतरिष्यति ।
सेतुमेवाम्बुधेः पारमपारगुणशालिना ॥ १० ॥
श्रीवाल्मीकिरुवाच -
इत्युक्त्वा स भरद्वाजं परमेष्ठी मदाश्रमम् ।
अभ्यागच्छत्समं तेन भरद्वाजेन भूतकृत् ॥ ११ ॥
तूर्णं संपूजितो देवः सोऽर्घ्यपाद्यादिना मया ।
अवोचन्मां महासत्त्वः सर्वभूतहिते रतः ॥ १२ ॥
रामस्वभावकथनादस्माद्वरमुने त्वया ।
निद्वेगात्स परित्याज्य आसमाप्तेरनिन्दितात् ॥ १३ ॥
ग्रन्थेनानेन लोकोऽयमस्मात्संसासारसंकटात् ।
समुत्तरिष्यति क्षिप्रं पोतेनेवाशु सागरात् ॥ १४ ॥
वक्तुं तदेवमेवार्थमहमागतवानयम् ।
कुरु लोकहितार्थं त्वं शास्त्रमित्युक्तवानजः ॥ १५ ॥
मम पुण्याश्रमात्तस्मात्क्षणादन्तर्द्धिमागतः ।
मुहूर्ताभ्युत्थितः प्रोच्चैस्तरङ्ग इव वारिणः ॥ १६ ॥
तस्मिन्प्रयाते भगवत्यहं विस्मयमागतः ।
पुनस्तत्र भरद्वाजमपृच्छं स्वस्थया धिया ॥ १७ ॥
किमेतद्‌ब्रह्मणा प्रोक्तं भरद्वाज वदाशु मे ।
इत्युक्तेन पुनः प्रोक्तं भरद्वाजेन तेन मे ॥ १८ ॥
भरद्वाज उवाच -
एतदुक्तं भगवता यथा रामायणं कुरु ।
सर्वलोकहितार्थाय संसारार्णवतारकम् ॥ १९ ॥
मह्यं च भगवन्ब्रूहि कथं संसारसंकटे ।
रामो व्यवहृतो ह्यस्मिन्भरतश्च महामनाः ॥ २० ॥
शत्रुघ्नो लक्ष्मणश्चापि सीता चापि यशस्विनी ।
रामानुयायिनस्ते वा मन्त्रिपुत्रा महाधियः ॥ २१ ॥
निर्दुःखितां यथैते नु प्राप्तास्तद्‌ब्रूहि मे स्फुटम् ।
तथैवाहं भविष्यामि ततो जनतया सह ॥ २२ ॥
भरद्वाजेन राजेन्द्र वदेत्युक्तोऽस्मि सादरम् ।
तदा कर्तुं विभोराज्ञामहं वक्तुं प्रवृत्तवान् ॥ २३ ॥
श्रृणु वत्स भरद्वाज यथापृष्टं वदामि ते ।
श्रुतेन येन संमोहमलं दूरे करिष्यसि ॥ २४ ॥
तथा व्यवहर प्राज्ञ यथा व्यवहृतः सुखी ।
सर्वासंसक्तया बुद्ध्या रामो राजीवलोचनः ॥ २५ ॥
लक्ष्मणो भरतश्चैव शत्रुघ्नश्च महामनाः ।
कौसल्या च सुमित्रा च सीता दशरथस्तथा ॥ २६ ॥ 
कृतास्त्रश्चाऽविरोधश्च बोधपारमुपागताः ।
वसिष्ठो वामदेवश्च मन्त्रिणोऽष्टौ तथेतरे ॥ २७ ॥
धृष्टिर्जयन्तो भासश्च सत्यो विजय एव च ।
विभीषणः सुषेणश्च हनुमानिन्द्रजित्तथा ॥ २८ ॥
एतेऽष्टौ मन्त्रिणः प्रोक्ताः समनीरागचेतसः ।
जीवन्मुक्ता महात्मानो यथाप्राप्तानुवर्तिनः ॥ २९ ॥
एतैर्यथा हुतं दत्तं गृहीतमुषितं स्मृतम् ।
तथा चेद्वर्तसे पुत्र मुक्त एवासि संकटात् ॥ ३० ॥
अपारसंसारसमुद्रपाती
    लब्ध्वा परां युक्तिमुदारसत्त्वः ।
न शोकमायाति न दैन्यमेति
    गतज्वरस्तिष्ठति नित्यतृप्तः ॥ ३१ ॥
इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे  सूत्रपातनको नाम द्वितीयः सर्गः ॥ २ ॥

No comments:

Post a Comment