विश्वामित्राभ्यागमनम्
श्रीवाल्मीकिरुवाच -
इत्युक्ते मुनिनाथेन संदेहवति पार्थिवे ।
खेदवत्यास्थिते मौनं किंचित्कालप्रतीक्षणे ॥ १ ॥
परिखिन्नासु सर्वांसु राज्ञीषु नृपसद्मसु ।
स्थितासु सावधानासु रामचेष्टासु सर्वतः ॥ २ ॥
एतस्मिन्नेव काले तु विश्वामित्र इति श्रुतः ।
महर्षिरभ्यगाद्द्रष्टुं तमयोध्यानराधिपम् ॥ ३ ॥
तस्य यज्ञोऽथ रक्षोभिस्तथा विलुलुपे किल ।
मायावीर्यबलोन्मत्तैर्धर्मकार्यस्य धीमतः ॥ ४ ॥
रक्षार्थं तस्य यज्ञस्य द्रष्टुमैच्छत्स पार्थिवम्
।
नहि शक्नोत्यविघ्नेन समाप्तुं स मुनिः क्रतुम् ॥
५ ॥
ततस्तेषां विनाशार्थमुद्यतस्तपसां निधिः ।
विश्वामित्रो महातेजा अयोध्यामभ्यगात्पुरीम् ॥ ६
॥
स राज्ञो दर्शनाकाङ्क्षी द्वाराध्यक्षानुवाच ह ।
शीघ्रमाख्यात मां प्राप्तं कौशिकं गाधिनः सुतम्
॥ ७ ॥
तस्य तद्वचनं श्रुत्वा द्वास्था राजगृहं ययुः ।
संभ्रान्तमनसः सर्वे तेन वाक्येन चोदिताः ॥ ८ ॥
ते गत्वा राजसदनं विश्वामित्रमृषिं ततः ।
प्राप्तमावेदयामासुः प्रतीहाराः पतेस्तदा ॥ ९ ॥
अथास्थानगतं भूपं राजमण्डलमालिनम् ।
समुपेत्य त्वरायुक्तो याष्टीकोऽसौ व्यजिज्ञपत् ॥
१० ॥
देव द्वारि महातेजा बालभास्करभासुरः ।
ज्वालारुणजटाजूटः पुमाञ्छ्रीमानवस्थितः ॥ ११ ॥
सभासुरपताकान्तं साश्वेभपुरुषायुधम् ।
कृतवांस्तं प्रदेशं यस्तेजोभिः कीर्णकाञ्चनम् ॥
१२ ॥
वीक्ष्यमाणे तु याष्टीके निवेदयति राजनि ।
विश्वामित्रो मुनिः प्राप्त इत्यनुद्धतया गिरा ॥
१३ ॥
इति याष्टीकवचनमाकर्ण्य नृपसत्तमः ।
स समन्त्री ससामन्तः प्रोत्तस्थौ हेमविष्टरात् ॥
१४ ॥
पदातिरेव सहसा राज्ञां वृन्देन मालितः ।
वसिष्ठवामदेवाभ्यां सह सामन्तसंस्तुतः ॥ १५ ॥
जगाम तत्र यत्रासौ विश्वामित्रो महामुनिः ।
ददर्श मुनिशार्दूलं द्वारभूमाववस्थितम् ॥ १६ ॥
केनापि कारणेनोर्वीतलमर्कमुपागतम् ।
ब्राह्मेण तेजसाक्रान्तं क्षात्रेण च महौजसा ॥ १७
॥
जराजरठया नित्यं तपःप्रसररूक्षया ।
जटावल्या वृतस्कन्धं ससंध्याभ्रमिवाचलम् ॥ १८ ॥
उपशान्तं च कान्तं च दीप्तमप्रतिघाति च ।
निभृतं चोर्जिताकारं दधानं भास्वरं वपुः ॥ १९ ॥
पेशलेनातिभीमेन प्रसन्नेनाकुलेन च ।
गम्भीरेणातिपूर्णेन तेजसा रञ्जितप्रभम् ॥ २० ॥
अनन्तजीवितदशासखीमेकामनिन्दिताम् ।
धारयन्तं करे श्लक्ष्णां कुण्डीमम्लानमानसम् ॥ २१
॥
करुणाक्रान्तचेतस्त्वात्प्रसन्नैर्मधुराक्षरैः ।
वीक्षणैरमृतेनेव संसिञ्चन्तमिमाः प्रजाः ॥ २२ ॥
युक्तयज्ञोपवीताङ्गं धवलप्रोन्नतद्भ्रुवम् ।
अनन्तं विस्मयं चान्तः प्रयच्छन्तमिवेक्षितुः ॥
२३ ॥
मुनिमालोक्य भूपालो दूरादेवानताकृतिः ।
प्रणनाम गलन्मौलिमणिमानितभूतलम् ॥ २४ ॥
मुनिरप्यवनीनाथं भास्वानिव शतक्रतुम् ।
तत्राभिवादयांचक्रे मधुरोदारया गिरा ॥ २५ ॥
ततो वसिष्ठप्रमुखाः सर्व एव द्विजातयः ।
स्वागतादिक्रमेणैनं पूजयामासुरादृताः ॥ २६ ॥
दशरथ उवाच -
अशङ्कितोपनीतेन भास्वता दर्शनेन ते ।
साधो स्वनुगृहीताः स्मो रविणेवाम्बुजाकराः ॥ २७
॥
यदनादि यदक्षुण्णं यदपायविवर्जितम् ।
तदानन्दसुखं प्राप्तं मया त्वद्दर्शनान्मुने ॥ २८
॥
अद्य वर्तामहे नूनं धन्यानां धुरि धर्मतः ।
भवदागमनस्येमे यद्वयं लक्ष्यमागताः ॥ २९ ॥
एवं प्रकथयन्तोऽत्र राजानोऽथ महर्षयः ।
आसनेषु सभास्थानमासाद्य समुपाविशन् ॥ ३० ॥
स दृष्ट्वा मालितं लक्ष्म्या भीतस्तमृषिसत्तमम्
।
प्रहृष्टवदनो राजा स्वयमर्घ्यं न्यवेदयत् ॥ ३१ ॥
स राज्ञः प्रतिगृह्यार्घ्यं शास्त्रदृष्टेन कर्मणा
।
प्रदक्षिणं प्रकुर्वन्तं राजानं पर्यपूजयत् ॥ ३२
॥
स राज्ञा पूजितस्तेन प्रहृष्टवदनस्तदा ।
कुशलं चाव्ययं चैव पर्यपृच्छन्नराधिपम् ॥ ३३ ॥
वसिष्ठेन समागम्य प्रहस्य मुनिपुंगवः ।
यथार्हं चार्चयित्वैनं पप्रच्छानामयं ततः ॥ ३४ ॥
क्षणं यथार्हमन्योन्यं पूजयित्व समेत्य च ।
ते सर्वे हृष्टमनसो महाराजनिवेशने ॥ ३५ ॥
यथोचितासनगता मिथः संवृद्धतेजसः ।
परस्परेण पप्रच्छुः सर्वऽनामयमादरात् ॥ ३६ ॥
उपविष्टाय तस्मै स विश्वामित्राय धीमते ।
पाद्यमर्घ्यं च गां चैव भूयोभूयो न्यवेदयत् ॥ ३७
॥
अर्चयित्वा तु विधिवद्विश्वामित्रमभाषत ।
प्राञलिः प्रयतो वाक्यमिदं प्रीतमना नृपः ॥ ३८ ॥
यथाऽमृतस्य संप्राप्तिर्यथा वर्षमवर्षके ।
यथान्धस्येक्षणप्राप्तिर्भवदागमनं तथा ॥ ३९ ॥
यथेष्टदारसंपर्कात्पुत्रजन्माऽप्रजावतः ।
स्वप्नदृष्टार्थलाभश्च भवदागमनं तथा ॥ ४० ॥
यथेप्सितेन संयोग इष्टस्यागमनं यथा ।
प्रणष्टस्य यथा लाभो भवदागमनं तथा ॥ ४१ ॥
यथा हर्षो नभोगत्या मृतस्य पुनरागमात् ।
तथा त्वदागमाद्ब्रह्मन्स्वागतं ते महामुने ॥ ४२
॥
ब्रह्मलोकनिवासो हि कस्य न प्रीतिमावहेत् ।
मुने तवागमस्तद्वत्सत्यमेव ब्रवीमि ते ॥ ४३ ॥
कश्च ते परमं कामः किं च ते करवाण्यहम् ।
पात्रभूतोऽसि मे विप्र प्राप्तः परमधार्मिकः ॥ ४४
॥
पूर्वं राजर्षिशब्देन तपसा द्योतितप्रभः ।
ब्रह्मर्षित्वमनुप्राप्तः पूज्योऽसि भगवन्मया ॥
४५ ॥
गङ्गाजलाभिषेकेण यथा प्रीतिर्भवेन्मम ।
तथा त्वद्दर्शनात्प्रीतिरन्तः शीतयतीव माम् ॥ ४६
॥
विगतेच्छाभयक्रोधो वीतरागो निरामयः ।
इदमत्यद्भुतं ब्रह्मन्यद्भगवान्मामुपागतः ॥ ४७
॥
शुभक्षेत्रगतं चाहमात्मानमपकल्मषम् ।
चन्द्रबिम्ब इवोन्मग्नं वेदवेद्य विदांवर ॥ ४८ ॥
साक्षादिव ब्रह्मणो मे तवाभ्यागमनं मतम् ।
पूतोऽस्म्यनुगृहीतश्च तवाभ्यागमनान्मुने ॥ ४९ ॥
त्वदागमनपुण्येन साधो यदनुरञ्जितम् ।
अद्य मे सफलं जन्म जीवितं तत्सुजीवितम् ॥ ५० ॥
त्वामिहाभ्यागतं दृष्ट्वा प्रतिपूज्य प्रणम्य च
।
आत्मन्येव नमाम्यन्तदृष्ट्वेन्दुं जलधिर्यथा ॥ ५१
॥
यत्कार्यं येन वार्थेन प्राप्तोऽसि मुनिपुङ्गव ।
कृतमित्येव तद्विद्धि मान्योऽसीति सदा मम ॥ ५२ ॥
स्वकार्ये न विमर्शं त्व कर्तुमर्हसि कौशिक ।
भगवन्नास्त्यदेयं मे त्वयि यत्प्रतिपद्यते ॥ ५३
॥
कार्यस्य न विचारं त्वं कर्तुमर्हसि धर्मतः ।
कर्ता चाहमशेषं ते दैवतं परमं भवान् ॥ ५४ ॥
इदमतिमधुरं निशम्य वाक्यं
श्रुतिसुखमात्मविदा
विनीतमुक्तम् ।
प्रथितगुणयशा गुणैर्विशिष्टं
मुनिवृषभः
परमं जगाम हर्षम् ॥ ५५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे विश्वामित्राभ्यागमनं नाम षष्टः
सर्गः ॥ ६ ॥
No comments:
Post a Comment