Wednesday, February 25, 2015

योगवासिष्ठ - वैराग्य प्रकरणम् - सप्तमः सर्गः





विश्वामित्रवाक्यवर्णनम् 





श्रीवाल्मीकिरुवाच -

तच्छ्रुत्वा राजसिंहस्य वाक्यमद्‌भुतविस्तरम् ।

हृष्टरोमा महातेजा विश्वामित्रोऽभ्यभाषत ॥ १ ॥

सदृशं राजशार्दूल तवैवैतन्महीतले ।

महावंशप्रसूतस्य वसिष्ठवशवर्तिनः ॥ २ ॥

यत्तु मे हृद्‌गतं वाक्यं तस्य कार्यविनिर्णयम् ।

कुरु त्वं राजशार्दूल धर्मं समनुपालय ॥ ३ ॥

अहं धर्मं समातिष्ठे सिद्ध्यर्थं पुरुषर्षभ ।

तस्य विघ्नकरा घोरा राक्षसा मम संस्थिताः ॥ ४ ॥

यदा यदा नु यज्ञेन यजेऽहं विबुधव्रजान् ।

तदा तदा तु मे यज्ञं विनिघ्नन्ति निशाचराः ॥ ५ ॥

बहुशो विहिते तस्मिन्मया राक्षसनायकाः ।

अकिरंस्ते महीं यागे मांसेन रुधिरेण च ॥ ६ ॥

अवधूते तथाभूते तस्मिन्यागकदम्बके ।

कृतश्रमो निरुत्साहस्तस्मादेशादुपागतः ॥ ७ ॥

न च मे क्रोधमुत्स्रष्टुं बुद्धिर्भवति पार्थिव ।

तथाभूतं हि तत्कर्म न शापस्तस्य विद्यते ॥ ८ ॥

ईदृशी यज्ञदीक्षा सा मम तस्मिन्महाक्रतौ ।

त्वत्प्रसादादविघ्नेन प्रापयेयं महाफलम् ॥ ९ ॥

त्रातुमर्हसि मामार्तं शरणार्थिनमागतम् ।

अर्थिनां यन्निराशत्वं सत्तमेऽभिभवो हि सः ॥ १० ॥

तवास्ति तनयः श्रीमान्दृप्तशार्दूलविक्रमः ।

महेन्द्रसदृशो वीर्ये रामो रक्षोविदारणः ॥ ११ ॥

तं पुत्रं राजशार्दूल रामं सत्यप्रराक्रमम् ।

काकपक्षधरं शूरं ज्येष्ठं मे दातुमर्हसि ॥ १२ ॥

शक्तो ह्येष मया गुप्तो दिव्येन स्वेन तेजसा ।

राक्षसा येऽपकर्तारस्तेषां मूर्धविनिग्रहे ॥ १३ ॥

श्रेयश्चास्य करिष्यामि बहुरूपमनन्तकम् ।

त्रयाणामपि लोकानां येन पूज्यो भविष्यति ॥ १४ ॥

न चे राममासाद्य स्थातुं शक्ता निशाचराः ।

क्रुद्धं केसरिणं दृष्ट्वा वनेरण इवैणकाः ॥ १५ ॥

तेषां न चान्यः काकुत्स्थाद्योद्धुमुत्सहते पुमान् ।

ऋते केसरिणः क्रुद्धान्मत्तानां करिणामिव ॥ १६ ॥

वीर्योत्सिक्ता हि ते पापाः कालकूटोपमा रणे ।

खरदूषणयोर्भृत्याः कृतान्ताः कुपिता इव ॥ १७ ॥

रामस्य राजशार्दूल सहिष्यन्ते न सायकान् ।

अनारतगता धारा जलदस्येव पांसवः ॥ १८ ॥

न च पुत्रकृतं स्नेहं कर्तुमर्हसि पार्थिव ।

न तदस्ति जगत्यस्मिन्यन्न देयं महात्मनाम् ॥ १९ ॥

हन्त नूनम् विजानामि हतांस्तान्विद्धि राक्षसान् ।

नह्यस्मदादयः प्राज्ञाः संदिग्धे संप्रवृत्तयः ॥ २० ॥

अहं वेद्मि महात्मानं रामं राजीवलोचनम् ।

वसिष्ठश्च महातेजा ये चान्ये दीर्घदर्शिनः ॥ २१ ॥

यदि धर्मो महत्त्वं च यशस्ते मनसि स्थितम् ।

तन्मह्यं समभिप्रेतमात्मजं दातुमर्हसि ॥ २२ ॥

दशरात्रश्च मे यज्ञो यस्मिन्‌रामेण राक्षसाः ।

हन्तव्या विघ्नकर्तारो मम यज्ञस्य वैरिणः ॥ २३ ॥ 

अत्राप्यनुज्ञां काकुत्स्थ ददतां तव मन्त्रिणः ।

वसिष्ठप्रमुखाः सर्वे तेन रामं विसर्जय ॥ २४ ॥

नात्येति कालः कालज्ञ यथायं मम राघव ।

तथा कुरुष्व भद्रं ते मा च शोके मनः कृथाः ॥ २५ ॥

कार्यमण्वपि काले तु कृतमेत्युपकारताम् ।

महदप्युपकारोऽपि रिक्ततामेत्यकालतः ॥ २६ ॥

इत्येवमुक्त्वा धर्मात्मा धर्मार्थसहितं वचः ।

विरराम महातेजा विश्वामित्रो मुनीश्वरः ॥ २७ ॥

श्रुत्वा वचो मुनिवरस्य महानुभाव-

  स्तूष्णीमतिष्ठदुपपन्नपदं स वक्तुम् ।

नो युक्तियुक्तकथनेन विनैति तोषं

  धीमानपूरितमनोऽभिमतश्च लोकं ॥ २८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये

वैराग्यप्रकरणे विश्वामित्रवाक्यं नाम सप्तमः सर्गः ॥ ७ ॥
 

No comments:

Post a Comment