Monday, February 23, 2015

योगवासिष्ठ - वैराग्य प्रकरणम् - पञ्चमः सर्गः



कार्श्यनिवेदनम् 


श्रीवाल्मीकिरुवाच -
अथोनषोडशे वर्षे वर्तमाने रघुद्वहे ।
रामानुयायिनि तथा शत्रुघ्ने लक्ष्मणेऽपि च ॥ १ ॥
भरते संस्थिते नित्यं मातामहगृहे सुखम् ।
पालयत्यवनिं राज्ञि यथावदखिलामिमाम् ॥ २ ॥
जन्यत्रार्थं च पुत्राणां प्रत्यहं सह मन्त्रिभिः ।
कृतमन्त्रे महाप्राज्ञे तज्ज्ञे दशरथे नृपे ॥ ३ ॥
कृतायां तीर्थयात्रायां रामो निजगृहे स्थितः ।
जगामानुदिनं कार्श्यं शरदीवामलं सरः ॥ ४ ॥
कुमारस्य विशालाक्षं पाण्डूतां मुखमाददे ।
पाकफुल्लदलं शुक्लं सालिमालमिवाम्बुजम् ॥ ५ ॥
कपोलतलसंलीनपाणिः पद्मासनस्थितः ।
चिन्तापरवशस्तूष्णीमव्यापारो बभूव ह ॥ ६ ॥
कृशाङ्गश्चिन्तया युक्तः खेदी परमदुर्मनाः ।
नोवाच कस्यचित्किंचिल्लिपिकर्मार्पितोपमः ॥ ७ ॥
खेदात्परिजनेनासौ प्रार्थ्यमानः पुनः पुनः
चकाराह्निकमाचारं परिम्लानमुखाम्बुजः ॥ ८ ॥
एवं गुणविशिष्टं तं रामं गुणगणाकरम् ।
आलोक्य भ्रातरावस्य तामेवाययतुर्दशाम् ॥ ९ ॥
तथा तेषु तनूजेषु खेदवत्सु कृशेषु च ।
सप‍त्‍नीको महीपालश्चिन्ताविवशतां ययौ ॥ १० ॥
का ते पुत्र घना चिन्तेत्येवं रामं पुनः पुनः ।
अपृच्छत्स्निग्धया वाचा नैवाकथयदस्य सः ॥ ११ ॥
न किंचित्तात मे दुःखमित्युक्त्वा पितुरङ्कगः ।
रामो राजीवपत्राक्षस्तूष्णीमेव स्म तिष्ठति ॥ १२ ॥
ततो दशरथो राजा रामः किं खेदवानिति ।
अपृच्छत्सर्वकार्यज्ञं वसिष्ठं वदतां वरम् ॥ १३ ॥
इत्युक्तश्चिन्तयित्वा स वसिष्ठमुनिना नृपः ।
अस्त्यत्र कारणं श्रीमन्मा राजन्दुःखमस्तु ते ॥ १४ ॥
कोपं विषादकलनां विततं च हर्षं
    नाल्पेन कारणवशेन वहन्ति सन्तः ।
सर्गेण संहृतिजवेन विना जगत्यां
    भूतानि भूप न महान्ति विकारवन्ति ॥ १५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये
वैराग्यप्रकरणे कार्श्यनिवेदनं नाम पञ्चमः सर्गः ॥ ५ ॥

No comments:

Post a Comment