सूत्रपातनिकावर्णनम्
यतः सर्वाणि भूतानि प्रतिभान्ति स्थितानि च ।
यत्रैवोपशमं यान्ति तस्मै सत्यात्मने नमः ॥ १ ॥
ज्ञाता ज्ञानं तथा ज्ञेयं द्रष्टा दर्शनदृश्यभूः
।
कर्ता हेतुः क्रिया यस्मात्तस्मै ज्ञप्त्यात्मने
नमः ॥ २ ॥
स्फुरन्ति सीकरा यस्मादानन्दस्याम्बरेऽवनौ ।
सर्वेषां जीवनं तस्मै ब्रह्मानन्दात्मने नमः ॥ ३
॥
सुस्तीक्ष्णो ब्राह्मणः कश्चित्संशयाकृष्टमानसः
।
अगस्तेराश्रमं गत्वा मुनिं पप्रच्छ सादरम् ॥ ४ ॥
भगवन्धर्मतत्त्वज्ञ सर्वशास्त्रविनिश्चित ।
संशयोऽस्ति महानेकस्त्वमेतं कृपया वद ॥ ५ ॥
मोक्षस्य कारणं कर्म ज्ञानं वा मोक्षसाधनम् ।
उभयं वा विनिश्चित्य एकं कथय कारणम् ॥ ६ ॥
अगस्तिरुवाच -
उभाभ्यामेव पक्षाभ्यां यथा खे पक्षिणां गतिः ।
तथैव ज्ञानकर्माभ्यां जायते परमं पदम् ॥ ७ ॥
केवलात्कर्मणो ज्ञानान्नहि मोक्षोऽभिजायते ।
किंतूभाभ्यां भवेन्मोक्षः साधनं तूभयं विदुः ॥ ८
॥
अस्मिन्नर्थे पुरावृत्तमितिहासं वदामि ते ।
कारुणाख्यः पुरा कश्चिद्ब्राह्मणोऽधीतवेदकः ॥ ९
॥
अग्निवेशस्य पुत्रोऽभूद्वेदवेदाङ्गपारगः ।
गुरोरधीतविद्यः सन्नाजगाम गृहं प्रति ॥ १० ॥
तस्थावकर्मकृत्तूष्णीं संशयानो गृहे तदा ।
अग्निवेश्यो विलोक्याथ पुत्रं कर्मविवर्जितम् ॥
११ ॥
प्राह एतद्वचो निन्द्यं गुरुः पुत्रं हिताय च ।
अग्निवेश्यो उवाच -
किमेतत्पुत्र कुरुषे पालनं न स्वकर्मणः ॥ १२ ॥
अकर्मनिरतः सिद्धिं कथं प्राप्स्यसि तद्वद ।
कर्मणोऽस्मान्निवृत्तेः किं कारणं तन्निवेद्यताम्
॥ १३ ॥
कारुण्य उवाच -
यावज्जीवमग्निहोत्रं नित्यं संध्यामुपासयेत् ।
प्रवृत्तिरूपो धर्मोऽयं श्रुत्या स्मृत्या च चोदितः
॥ १४ ॥
न धनेन भवेन्मोक्षः कर्मणा प्रजया न वा ।
त्यागमात्रेण किंत्वेके यतयोऽश्नन्ति चामृतम् ॥
१५ ॥
इति श्रुत्योर्द्वयोर्मध्ये किं कर्तव्यं मया गुरो
।
इति संदिग्धतां गत्वा तूष्णींभूऽस्मि कर्मणि ॥ १६
॥
अगस्तिरुवाच -
इत्युक्त्वा तात विप्रोऽसौ कारुण्यो मौनमागतः ।
तथाविधं सुतं दृष्ट्वा पुनः प्राह गुरुः सुतम् ॥
१७ ॥
अग्निवेश्य उवाच -
शृणु पुत्र कथामेकां तदर्थं हृदयेऽखिलम् ।
मत्तोऽवधार्य पुत्र त्वं यथेच्छसि तथा कुरु ॥ १८
॥
सुरुचिर्नाम काचित्स्त्री अप्सरोगणउत्तमा ।
उपविष्टा हिमवतः शिखरे शिखिसंवृते ॥ १९ ॥
रमन्ते कामसंतप्ताः किन्नर्यो यत्र किन्नरैः ।
स्वर्धुन्योघेन संसृष्टे महाघौघविनाशिना ॥ २० ॥
दूतमिन्द्रस्य गच्छन्तमन्तरिक्षे ददर्श सा ।
तमुवाच महाभागा सुरुचिश्चाप्सरोवरा ॥ २१ ॥
सुरुचिरुवाच -
देवदूत महाभाग कुत आगम्यते त्वया ।
अधुना कुत्र गन्तासि तत्सर्वं कृपया वद ॥ २२ ॥
देवदूत उवाच -
साधु पृष्टं त्वया सुभ्रु यथावत्कथयामि ते ।
अरिष्टनेमी राजर्षिर्दत्त्वा राज्यं सुताय वै ॥
२३ ॥
वीतरागः स धर्मात्मा निर्ययौ तपसे वनम् ।
तपश्चरत्यसौ राजा पर्वते गन्धमादने ॥ २४ ॥
कार्यं कृत्वा मया तत्र तत आगम्यतेऽधुना ।
गन्तासि पार्श्वे शक्रस्य तं वृत्तान्तं निवेदितुम्
॥ २५ ॥
अप्सरा उवाच -
वृत्तान्तः कोऽभवत्तत्र कथयस्व मम प्रभो ।
प्रष्टुकामा विनीतास्मि नोद्वेगं कर्तुमर्हसि ॥
२६ ॥
देवदूत उवाच -
शृणु भद्रे यथावृत्तं विस्तरेण वदामि ते ।
तस्मान्राज्ञि वने तत्र तपश्चरति दुस्तरम् ॥ २७
॥
इत्यहं देवराजेन सुभ्रूराज्ञापितस्तदा ।
दूत त्वं तत्र गच्छाशु गृहीत्वेदं विमानकम् ॥ २८
॥
अप्सरोगणसंयुक्तं नानावादित्रशोभितम् ।
गन्धर्वसिद्धयक्षैश्च किन्नराद्यैश्च शोभितम् ॥
२९ ॥
तालवेणुमृदङ्गादि पर्वते गन्धमादने ।
नानावृक्षसमाकीर्णे गत्त्वा तस्मिन्गिरौ शुभे ॥
३० ॥
अरिष्टनेमिं राजानं दूतारोप्य विमानके ।
आनय स्वर्गभोगाय नगरीममरावतीम् ॥ ३१ ॥
दूत उवाच -
इत्याज्ञां प्राप्य शक्रस्य गृहीत्वा तद्विमानकम्
।
सर्वोपस्करसंयुक्तं तस्मिन्नद्रावहं ययौ ॥ ३२ ॥
आगत्य पर्वते तस्मिन्राज्ञो गत्वाऽऽश्रमं मया ।
निवेदिता महेन्द्रस्य सर्वाज्ञाऽरिष्टनेमये ॥ ३३
॥
इति मद्वचनं श्रुत्वा संशयानोऽवदच्छुभे ।
राजोवाच -
प्रष्टुमिच्छामि दूत त्वां तन्मे त्वं वक्तुमर्हसि
॥ ३४ ॥
गुणा दोषाश्च के तत्र स्वर्गे वद ममाग्रतः ।
ज्ञात्वा स्थितिं तु तत्रत्यां करिष्येऽहं यथारुचि
॥ ३५ ॥
दूत उवाच -
स्वर्गे पुण्यस्य सामग्र्या भुज्यते परमं सुखम्
।
उत्तमेन तु पुण्येन प्राप्नोति स्वर्गमुत्तमम् ॥
३६ ॥
मध्यमेन तथा मध्यः स्वर्गो भवति नान्यथा ।
कनिष्ठेन तु पुण्येन स्वर्गो भवति तादृशः ॥ ३७ ॥
परोत्कर्षासहिष्णुत्वं स्पर्धा चैव समैश्च तैः ।
कनिष्ठेषु च संतोषो यावपुण्यक्षयो भवेत् ॥ ३८ ॥
क्षीणे पुण्ये विशन्त्येतं मर्त्यलोकं च मानवाः
।
इत्यादिगुणदोषाश्च स्वर्गे राजन्नवस्थिताः ॥ ३९
॥
इति श्रुत्वा वचो भद्रे स राजा प्रत्यभाषत ।
राजोवाच -
नेच्छामि देवदूताहं स्वर्गमीदृग्विधं फलम् ॥ ४०
॥
अतः परं महोग्रं च तपः कृत्वा कलेवरम् ।
त्यक्ष्याम्यहमशुद्धं हि जीर्णां त्वचमिवोरगः ॥
४१ ॥
देवदूत विमानेदं गृहीत्वा त्वं यथागतः ।
तथा गच्छ महेन्द्रस्य संनिधौ त्वं नमोऽस्तु ते ॥
४२ ॥
देवदूत उवाच -
इत्युक्तोऽहं गतो भद्रे शक्रस्याग्रे निवेदितुम्
।
यथावृत्तं निवेद्याथ महदाश्चर्यतां गतः ॥ ४३ ॥
पुनः प्राह महेन्द्रो मां श्लक्ष्णं मधुरया गिरा
।
इन्द्र उवाच -
दूत गच्छ पुनस्तत्र तं राजानं नयाश्रमम् ॥ ४४ ॥
वाल्मिकेज्ञाततत्त्वस्य स्वबोधार्थं विरागिणम् ।
स्वदेशं मम वाल्मीकेर्महर्षेस्त्वं निवेदय ॥ ४५
॥
महर्षे त्वं विनीताय राज्ञेऽस्मै वीतरागिणे ।
न स्वर्गमिच्छते तत्त्वं प्रबोधय महामुने ॥ ४६ ॥
तेन संसारदुःखार्तो मोक्षमेष्यति च क्रमात् ।
इत्युक्त्वा देवराजेन प्रेषोतिऽहं तदन्तिके ॥ ४७
॥
मयागत्य पुनस्तत्र राजा वल्मीकजन्मने ।
निवेदितो महेन्द्रस्य राज्ञा मोक्षस्य साधनम् ॥
४८ ॥
ततो वल्मीजन्मासौ राजानं समपृच्छत ।
अनामयमतिप्रीत्या कुशलप्रश्नवार्तया ॥ ४९ ॥
राजोवाच -
भगवन्धर्मतत्त्वज्ञ ज्ञातज्ञेय विदांवर ।
कृतार्थोऽहं भवद्दृष्ट्या तदेव कुशलं मम ॥ ५० ॥
भगवन्प्रष्टुमिच्छामि तदविघ्नेन मे वद ।
संसारबन्धुदुःखार्तेः कथं मुञ्चामि तद्वद ॥ ५१ ॥
वाल्मीकिरुवाच -
शृणु राजन्प्रवक्ष्यामि रामायणमखण्डितम् ।
श्रुत्वावधार्य यत्नेन जीवन्मुक्तो भविष्यसि ॥
५२ ॥
वसिष्ठरामसंवादं मोक्षोपायकथां शुभाम् ।
ज्ञानस्वभावो राजेन्द्र वदामि श्रुयतां बुध ॥ ५३
॥
राजोवाच -
को रामः कीदृशः कस्य बद्धो वा मुक्त एव वा ।
एतन्मे निश्चितं ब्रूहि ज्ञानं तत्त्वविदां वर ॥
५४ ॥
वाल्मीकिरुवाच -
शापव्याजवशादेव राजवेषधरो हरिः ।
आहृताज्ञानसंपन्नः किंचिज्ज्ञोऽसौ भवत्प्रभुः ॥
५५ ॥
राजोवाच -
चिदानन्दस्वरूपे हि रामे चैतन्यविग्रहे ।
शापस्य कारणं ब्रूहि कः शप्ता चेति मे वद ॥ ५६ ॥
वाल्मीकिरुवाच -
सनत्कुमारो निष्काम अवसद्ब्रह्मसद्मनि ।
वैकुण्ठादागतो विष्णुस्त्रैलोक्याधिपतिः प्रभुः
॥ ५७ ॥
ब्रह्मणा पूजितस्तत्र सत्यलोकनिवासिभिः ।
विना कुमारं तं दृष्ट्वा ह्युवाच प्रभुरीश्वरः ॥
५८ ॥
सनत्कुमार स्तब्धोऽसि निष्कामो गर्वचेष्टया ।
अतस्त्वं भव कामार्तः शरजन्मेति नामतः ॥ ५९ ॥
तेनापि शापितो विष्णुः सर्वज्ञत्वं तवास्ति यत्
।
किंचित्कालं हि तत्त्यक्त्वा त्वमज्ञानी भविष्यसि
॥ ६० ॥
भृगुर्भार्यां हतां दृष्ट्वा ह्युवाच क्रोधमूर्च्छितः
।
विष्णो तवापि भार्याया वियोगो हि भविष्यति ॥ ६१
॥
वृन्दया शापितो विष्णुश्छलनं यत्त्वया कृतम् ।
अतस्त्वं स्त्रीवियोगं तु वचनान्मम यास्यसि ॥ ६२
॥
भार्या हि देवदत्तस्य पयोष्णीतीरसंस्थिता ।
नृसिंहवेषधृग्विष्णुं दृष्ट्वा पञ्चत्वमागता ॥ ६३
॥
तेन शप्तो हि नृहरिर्दुःखार्तः स्त्रीवियोगतः ।
तवापि भार्यया सार्धं वियोगो हि भविष्यति ॥ ६४ ॥
भृगुणैवं कुमारेण शापितो देवशर्मणा ।
वृन्दया शापितो विष्णुस्तेन मानुष्यतां गतः ॥ ६५
॥
एतत्ते कथितं सर्वं शापव्याजस्य कारणम् ।
इदानीं वच्मि तत्सर्वं सावधानमतिः श्रृणु ॥ ६६ ॥
इत्यार्षे श्रीमद्वासिष्ठमहारामायणे वाल्मीकीये
देवदूतोक्ते मोक्षोपाये
द्वात्रिंशत्साहस्र्यां संहितायां वैराग्यप्रकरणे
सूत्रपातनको नाम प्रथमः सर्गः ॥ १ ॥
No comments:
Post a Comment